|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.124. अध्यायः 124
Mahabharata - Drona Parva - Chapter Topics
सङ्कुलयुद्धवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-124-0x(4574)(50011)
किं तस्यां मम सेनायां नासन्केचिन्महारथाः।
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन्॥ 7-124-1(50012)
एको हि समरे कर्म कृतवान्सत्यविक्रमः।
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव॥ 7-124-2(50013)
अथवा शून्यमासीत्तद्येन यातः स सात्यकिः।
हतभूयिष्ठमथवा येन यातः स सात्यकिः॥ 7-124-3(50014)
यत्कृतं वृष्णिवीरेण कर्म शंससि मे रणे।
नैतदुत्सहते कर्तुं कर्म शक्रोऽपि सञ्जय॥ 7-124-4(50015)
अश्रद्धेयमचिन्त्यं च कर्म तस्य महात्मनः।
वृष्ण्यन्धकप्रवीरस्य श्रुत्वा मे व्यथितं मनः॥ 7-124-5(50016)
न सन्ति तस्मात्पुत्रा मे यथा सञ्जय भाषसे।
एको वै बहुलाः सेनाः प्रामृद्गात्सत्यविक्रमः॥ 7-124-6(50017)
कथं च युध्यमानानामपक्रान्ती महात्मनाम्।
एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय॥ 7-124-7(50018)
सञ्जय उवाच। 7-124-8x(4575)
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान्।
अतुल्यस्तव सेनायां युगान्तसदृशोऽभवत्॥ 7-124-8(50019)
आहूतेषु समूहेषु तव सैन्यस्य मानद।
नास्ति लोके समः कश्चित्समूह इति मे मतिः॥ 7-124-9(50020)
तत्रव देवास्त्वभाषन्त चारणाश्च समागताः।
एतदन्ताः समूहा वै भविष्यन्ति महीतले॥ 7-124-10(50021)
न च वै तादृशो व्यूह आसीत्कश्चिद्विशाम्पते।
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत्॥ 7-124-11(50022)
`उद्धृता पृथिवी नूनं युद्धहेतोः समागतैः।
इति तत्र जनाश्चाहुर्दृष्टा तां जनसंसदम्'॥ 7-124-12(50023)
चण्डवातविभिन्नानां समुद्राणामिव स्वनः।
रणेऽभवद्बलौघानामन्योन्यमभिधावताम्॥ 7-124-13(50024)
पार्थिवानां समेतानां बहून्यासन्नरोत्तम।
त्वद्बले प्राण्डवानां च सहस्राणि शतानि च॥ 7-124-14(50025)
संरब्धानां प्रवीराणां समरे दृढकर्मणाम्।
तत्रासीत्सुमहाशब्दस्तुमुलो रोमहर्षणः॥ 7-124-15(50026)
`पाण़्डवानां कुरूणां च गर्जतामितरेतरम्।
क्ष्वेलाः किलकिलाशब्दास्तत्रासन्वै सहस्रशः॥ 7-124-16(50027)
भेरीशब्दाश्च तुमुला बाणशब्दाश्च भारत।
अन्योन्यं निघ्नतां चैव नराणां शुश्रुवे स्वनः'॥ 7-124-17(50028)
अथाक्रन्दन्भीसमेनो धृष्टद्युम्नश्च मारिष।
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः॥ 7-124-18(50029)
आगच्छत प्रहरत द्रुतं विपरिधावत।
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ॥ 7-124-19(50030)
यथा सुखेन गच्छेतां जयद्रथवधं प्रति।
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयन्॥ 7-124-20(50031)
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः॥ 7-124-21(50032)
`यत्र यातौ महात्मानौ तूर्णं परपुरञ्जयौ'।
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम्।
क्षोभयध्वं महावेगाः पवनः सागरं यथा॥ 7-124-22(50033)
भीमसेनेन ते राजन्पाञ्चाल्येन च नोदिताः।
आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वाऽसूनात्मनः प्रियान्॥ 7-124-23(50034)
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः।
स्वर्गेप्सवो मित्रकार्ये नाभ्यनन्दन्त जीवितम्॥ 7-124-24(50035)
तथैव तावका राजन्प्रार्थयन्तो महद्यशः।
आर्यां युद्धे मतिं कृत्वा युद्धायैवावतस्थिरे॥ 7-124-25(50036)
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे।
जित्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनं ॥ 7-124-26(50037)
कवचानां प्रभास्तत्र सूर्यरश्मिविराजिताः।
दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः।
`ध्वजशस्त्रप्रतिहता लोकान्समवदीपयन्॥ 7-124-27(50038)
चण्डवातोद्धतान्मेघान्विकिरन्रश्मिमानिव।
तथा तव महत्सैन्यं तद्व्यरोचत तापयन्॥ 7-124-28(50039)
सम्प्रहृष्टः स सहसा तव सैन्यार्णवं प्रति।
लोलयन्सर्वतो गत्वा समुद्रं मकरो यथा॥ 7-124-29(50040)
तत्र राजन्महानासीत्सङ्ग्रामो भीतिवर्धनः।
पाण्डवस्य महाबाहो तावकानां च दारुणः॥ 7-124-30(50041)
रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम्।
ततः शब्दो महानासीत्प्रायाद्यत्र धनञ्चयः॥ 7-124-31(50042)
तत्र स्म कदनं घोरं वर्तते पाण्डुपूर्वज।
अर्जुनस्य महाबाहोस्तावकानां च धन्विनाम्॥ 7-124-32(50043)
मध्ये भारतसैन्यस्य माधवस्य महारणे।
द्रोणस्यापि परैः सार्धं व्यूहद्वारे सुदारुणम्॥ 7-124-33(50044)
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते।
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे'॥ 7-124-34(50045)
तथा प्रयतमानानां पाण्डवानां महात्मनाम्।
दुर्योधनो महाराजन्व्यगाहत महद्बलम्॥ 7-124-35(50046)
स सन्निपातस्तुमुलस्तेषां तस्य च भारत।
अभवत्सर्वभूतानामभावकरणो महान्॥ 7-124-36(50047)
धृतराष्ट्र उवाच। 7-124-37x(4576)
तथा यातेषु सैन्येषु तथा कृच्छ्रगतः स्वयम्।
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम्॥ 7-124-37(50048)
एकस्य च बहूनां च सन्निपातो महाहवे।
विशेषतो नरपतेर्विषमः प्रतिभाति मे॥ 7-124-38(50049)
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः।
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः॥ 7-124-39(50050)
सञ्जय उवाच। 7-124-40x(4577)
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत।
एकस्य बहुभिः सार्धं शृणुष्व गदतो मम॥ 7-124-40(50051)
दुर्योधनेन समरे पृतना पाण्डवी रणे।
नलिनी द्वरिदेनेव समन्तात्प्रतिलोडिता॥ 7-124-41(50052)
ततस्तां प्रहतां सेनां दृष्ट्वा पुत्रेण ते नृप।
भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रुवन्॥ 7-124-42(50053)
स भीमसेनं दशभिः शरैर्विव्याध पाण्डवम्।
त्रिभिस्त्रिभिर्यमौ वीरौ धर्मराजं च सप्तभिः॥ 7-124-43(50054)
विराटद्रुपदौ षद्भिः शतेन च शिखण्डिनम्।
धृष्टद्युम्नं च विंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः॥ 7-124-44(50055)
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे।
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः॥ 7-124-45(50056)
न सन्दधद्विमुञ्चन्वा मण्डलीकृतकार्मुकः।
अदृश्यत रिपून्निघ्नञ्छिक्षयाऽस्तबलेन च॥ 7-124-46(50057)
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः।
अजस्रं मण्डलीभूतं ददृशुः समरे जनाः॥ 7-124-47(50058)
ततो युधिष्ठिरो राजा भल्लाभ्यामच्छिनद्धनुः।
तव पुत्रस्य कौरव्य यतमानस्य संयुगे॥ 7-124-48(50059)
विव्याध चैनं दशभिः सम्यगस्तैः शरोत्तमैः।
वर्म चाशु समासाद्य ते भित्त्वा क्षितिमाविशन्॥ 7-124-49(50060)
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम्।
यथा वृत्रवधे देवाः पुरा शक्रं महर्षयः॥ 7-124-50(50061)
ततोऽन्यद्धनुरादाय तव पुत्रः प्रतापवान्।
तिष्ठेतिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात्॥ 7-124-51(50062)
तमायान्तमभिप्रेक्ष्य तव पुत्रं महामृधे।
प्रत्युद्ययुः समुदिताः पाञ्चाला जयगृद्धिनः॥ 7-124-52(50063)
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम्।
चण्डवातोद्धुतान्मेघान्गिरिरम्बुमुचो यथा॥ 7-124-53(50064)
तत्र राजन्महानासीत्सङ्ग्रामो रोमहर्षणः।
पाण्डवानां महाबाहो तावकानां च संयुगे॥ 7-124-54(50065)
रुद्रस्याक्रीडसदृशः संहारः सर्वदेहिनाम्॥ 7-124-55(50066)
ततः शब्दो महानासीद्यातो येन धनञ्जयः।
अतीव सर्वशब्देभ्यो रोमहर्षकरः प्रभो॥ 7-124-56(50067)
अर्जुनस्य महाबाहो तावकानां च धन्विनाम्।
मध्ये भारतसैन्यस्य माधवस्य महारणे।
द्रोणस्यापि परैः सार्धं व्यूहद्वारे महारणे॥ 7-124-57(50068)
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते।
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे॥ ॥ 7-124-58(50069)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः॥ 124 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-124-9 अनीकेषु समूहेषु इति क.ख.पाठः॥ 5-124-39 लक्ष्म्येति विशेषणे तृतीया॥ 5-124-125 चतुर्विंशत्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|